ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभि॑ः ।
मि॒थो न॑सन्त जा॒मिभि॑ः ॥
ते । जा॒न॒त॒ । स्वम् । ओ॒क्य॑म् । सम् । व॒त्सासः॑ । न । मा॒तृऽभिः॑ ।
मि॒थः । न॒स॒न्त॒ । जा॒मिऽभिः॑ ॥
ते ता गावौ जानत ज्ञातवत्यः । अथवा सामान्याकारेण तइति पुंनिर्देशः । किं स्वं स्वकीयमोक्यं निवासं महावीरं तत्रदोग्धुमगमन्नित्यर्थः । तदेवाह-वत्सासो वत्सामातृभिर्न जननीभिः सह यथा संगच्छन्ति तद्वज्जामिभिर्बन्धुभिः सहितागावोमिथः प्रत्येकं संनसन्त संगच्छन्ते महावीरम् ॥ १४ ॥