मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १५

संहिता

उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।
इन्द्रे॑ अ॒ग्ना नम॒ः स्व॑ः ॥

पदपाठः

उप॑ । स्रक्वे॑षु । बप्स॑तः । कृ॒ण्व॒ते । ध॒रुण॑म् । दि॒वि ।
इन्द्रे॑ । अ॒ग्ना । नमः॑ । स्वः॑ ॥

सायणभाष्यम्

महावीरस्य स्रक्वेषु बप्सतो ज्वालया भक्षयतोग्नेरन्नं धरुणं इन्द्रेअग्नेति वक्ष्यमाणत्वादिन्द्राग्न्योर्धारकमाजं दिवि अन्तरिक्षे उपकृण्वते उपकुर्वते । यदाग्निर्महावीरं दहति तदा तस्योपर्युभयविधं क्षीरमासेचयन्तीत्यर्थः । एवं महावीरं आसिच्य इन्द्रे अग्ना अग्नौ च स्वः सर्वं गव्यमाजंच नमोन्नम् । अथवा स्वः अन्तरिक्षे योजयन्तीति शेषः ॥ १५ ॥ प्रवर्ग्ये घर्मदुहि दुग्धायामधुक्षदित्येषा । सूत्रितञ्च-दुग्धायामधुक्षत्पिप्युषीमिति । ग्रावस्तोत्रेप्येषा अधुक्षत्पिप्युषीमिषमाकलशेषुधावतीति- सूत्रितत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६