मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १६

संहिता

अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।
सूर्य॑स्य स॒प्त र॒श्मिभि॑ः ॥

पदपाठः

अधु॑क्षत् । पि॒प्युषी॑म् । इष॑म् । ऊर्ज॑म् । स॒प्तऽप॑दीम् । अ॒रिः ।
सूर्य॑स्य । स॒प्त । र॒श्मिऽभिः॑ ॥

सायणभाष्यम्

अरिररणशीलोवायुः सूर्यस्य सप्तरश्मिभिः साधनैः पिप्युषीं आप्याययदिषमन्नं ऊर्जं रसं च । सप्तपदीं सर्पणस्वभावपादां माध्यमिकां वाचं धर्मधुग्रुपेणावस्थितां अधुक्षत् दुग्धवान् । यद्यप्यध्वर्युः पात्रेण गां दुग्धे तथाप्येवं भावनया सांगं भवति । माध्यमिकायावाचो मधुधुक्त्वम् । हिंक्रुण्वती गौरमीमेत्यादिषु प्रसिद्धम् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७