मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १७

संहिता

सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।
तदातु॑रस्य भेष॒जम् ॥

पदपाठः

सोम॑स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्ऽइ॑ता । सूरे॑ । आ । द॒दे॒ ।
तत् । आतु॑रस्य । भे॒ष॒जम् ॥

सायणभाष्यम्

हे मित्रावरुणा मित्रावरुनौ सूर्ये उदिता उदिते सोमस्य सोममाददे स्वीकरोति । तत्र हेतुं आह-तत्स्वीकाररूपं कर्म आतुरस्यास्मदादेर्भेषजं औषधं हितकरमित्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७