मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १८

संहिता

उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् ।
परि॒ द्यां जि॒ह्वया॑तनत् ॥

पदपाठः

उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । प॒दम् । ह॒र्य॒तस्य॑ । नि॒ऽधा॒न्य॑म् ।
परि॑ । द्याम् । जि॒ह्वया॑ । अ॒त॒न॒त् ॥

सायणभाष्यम्

पवमाने सोमे उतो अपिच अस्य सोमदातुर्हर्यतस्य प्रदानं कामयमानस्य मम यत्पदं निधान्यं हविषां निधानार्हं उत्तरवेदिलक्षणं तत्र स्थित्वाग्नि- र्द्यांपरि परितो जिह्वया ज्वालया अतनत् व्याप्नोत् ॥ १८ ॥

उदीराथामित्यष्टादशर्चं चतुर्थं सूक्तं आत्रेयस्य गोपवनस्य सप्तवध्रेर्वार्षं गायत्रमाश्विनं तथाचानुक्रमणिका-उदीराथांगोपवनआत्रेयः सप्तवध्रि- र्वाश्विनमिति । प्रातरनुवाकेआश्विने क्रतौगायत्रेछन्दस्याश्विनशस्त्रे चेदंसूक्तम् उदीराथामामेहवमितिगायत्रमितिसूत्रितत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७