मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् ५

संहिता

यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

यत् । अ॒द्य । कर्हि॑ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

यद्यस्मान्ननिर्धार्यते अतोद्यास्मिन्काले कर्हि कस्मिन्नपि देशे कर्हि कस्मिन्नपि काले इमं हवं अस्मदीयमाह्वानं शुश्रुयातं शृणुयातम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८