मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् ६

संहिता

अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य॑म् ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

अ॒श्विना॑ । या॒म॒ऽहूत॑मा । नेदि॑ष्ठम् । या॒मि॒ । आप्य॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

यामहूतमा अतिशयेन काले ह्वातव्यावश्विनाश्विनौ यामि नेदिष्ठमन्तिकतममाप्यं बांधवं च यामि तयोः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९