मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् ७

संहिता

अव॑न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

अव॑न्तम् । अत्र॑ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विना युवं युवां अत्रये अग्न्यागारे दह्यमानाय अवन्तं रक्षन्तं गृहं कृणुतं कृतवन्तौ तादृशयोर्वामवोभवतु । अवन्तमिति व्यत्ययेन पुँल्लिंगता ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९