मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १६

संहिता

अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑रृ॒ताव॑री ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विनौ उषा अरुणप्सुः शुभ्रवर्णा भूद्भवति । न केवलं स्वयं ज्योतिस्तेजः अकः करोति सर्वत ऋतावरीऋतवत्युषाः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०