मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् ५

संहिता

अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् ।
घृ॒ताह॑वन॒मीड्य॑म् ॥

पदपाठः

अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् ।
घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥

सायणभाष्यम्

सएवागत्य स्तौति-अमृतं अमरणं जातवेदसं जाततेजआद्युपलक्षणंधनं तमांसि तिरोदर्शतं दर्शयन्तमित्यर्थः घृताहवनं घृतमाहूयते यत्र तं ईड्यं स्तुत्यं ईदृशमागन्मेतिसंबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१