मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् ७

संहिता

इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।
मन्द्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥

पदपाठः

इ॒यम् । ते॒ । नव्य॑सी । म॒तिः । अग्ने॑ । अधा॑यि । अ॒स्मत् । आ ।
मन्द्र॑ । सुऽजा॑त । सुक्र॑तो॒ इति॒ सुऽक्र॑तो । अमू॑र । दस्म॑ । अति॑थे ॥

सायणभाष्यम्

हे अग्ने इयं इदानीं क्रियमाणा नव्यसी नवतरा मतिः स्तुतिस्ते तव स्वभूताअस्मदस्मासु अधायि धृताभूत् वयं तव स्तुतिं कुर्मइत्यर्थः । हे मन्द्र मोदमान सुजात शोभनजनन सुक्रतो शोभनकर्मन् अमूरामूढ दस्म दर्शनीयातिथे अतिथिवत्पूज्येत्यग्नेर्विशेषणानि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२