अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् ।
यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टयः॑ ॥
अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् ।
यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥
गां गन्तारमश्वमित् इच्छब्दइवार्थे अश्वमिव तं यथा स्तुवन्ते तथेत्यर्थः रथप्रां रथानामस्मदीयानां पूरयितारं धनैः तथा त्वेषं दीप्तं अग्निं सत्पतिं सतां पालकं इन्द्रंन इन्द्रमिव इमं कृष्टयो मनष्याः परिचरतेतिशेषः । यस्याग्नेर्बलेन श्रवांसि अन्नानि शत्रुसंबन्धीनि तूर्वथ । तथा पन्यंपन्यंच यद्यस्स्तुत्यं धनमस्ति तदपि तूर्वथ हिंस्थ ॥ १० ॥