मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् १३

संहिता

अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।
शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ॥

पदपाठः

अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व॑णि । म॒द॒ऽच्युति॑ ।
शर्धां॑सिऽइव । स्तु॒का॒ऽविना॑म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥

सायणभाष्यम्

अहमृषिर्हुवानो हूयमानो यज्ञदिदृक्षार्थं श्रुतर्वणि एतन्नाम्रि राजनि मदच्युति शत्रूणां मदस्यच्यावयितरि स्तुकाविनां स्तुकाविनऊर्णायवः स्तुकः केशसंघातः तद्वतां शर्धांसीव उच्छ्रितानि लोमानीव तानि यथा स्पृशन्ति तद्वत् वृक्षा वृक्षाणि वृक्ष्त्यन्तइति वृक्षाः केशाः तद्वन्ति वृक्षाणि शीर्षाणि शिरांसि । केषां चतुर्णां श्रुतर्वणा प्रदत्तानामश्वानां शिरांसि उन्मृजामीति शेषः । अथवा वृक्षा वृक्षेण व्र श्चनसाधनत्वाद्वृक्षोहस्तस्तेनोन्मृजामि ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३