मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ४

संहिता

अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पति॑ः ।
मू॒र्धा क॒वी र॑यी॒णाम् ॥

पदपाठः

अ॒यम् । अ॒ग्निः । स॒ह॒स्रिणः॑ । वाज॑स्य । श॒तिनः॑ । पतिः॑ ।
मू॒र्धा । क॒विः । र॒यी॒णाम् ॥

सायणभाष्यम्

अयमग्निः शतिनः सहस्रिणश्च उक्तसंख्योपेतस्य वाजस्यान्नस्य पतिः स्वामी मूर्धा शिरोवदुन्नतः श्रेष्ठः कविर्मेधावी रयीणां धनानामपि पतिरिति- शेषः तदुभयंप्रयच्छत्वित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४