मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् १०

संहिता

नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ ।
अमै॑र॒मित्र॑मर्दय ॥

पदपाठः

नमः॑ । ते॒ । अ॒ग्ने॒ । ओज॑से । गृ॒णन्ति॑ । दे॒व॒ । कृ॒ष्टयः॑ ।
अमैः॑ । अ॒मित्र॑म् । अ॒र्द॒य॒ ॥

सायणभाष्यम्

हे अग्ने देव ते तुभ्यं नमोगृणन्ति नमस्कारशब्दमुच्चारयन्ति । किमर्थमोजसे बलाय । के कृष्टयोमनुष्यायजमानाः अतोहमपि गृणामीत्यर्थः । तथा अमैर्बलैः अमित्रं शत्रुं अर्दय नाशय ॥ १० ॥ ग्राम्येणाग्निना वैतानिकस्य संसर्गे अग्नये संवर्गायेष्टिः कार्या । तत्र कुवित्सुनइत्यनुवाक्या मानोअस्मिन्निति याज्या । सूत्रितं च-कुवित्सुनोगविष्ट- ये मानोअस्मिन्महाधनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५