मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् १३

संहिता

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।
वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥

पदपाठः

अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिस॑क्तु । दु॒च्छुना॑ ।
वर्ध॑ । नः॒ । अम॑ऽवत् । शवः॑ ॥

सायणभाष्यम्

हे अग्ने त्वदीयेयं दुच्छुना बाधकसंहतिरस्मदन्यं अस्तोतारं भियै भयाय सिषक्तु सेवताम् । त्वंच नोस्माकं अमवद्वलोपेतं शवोवेगं वर्ध वर्धय संग्रामे ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६