मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् १४

संहिता

यस्याजु॑षन्नम॒स्विन॒ः शमी॒मदु॑र्मखस्य वा ।
तं घेद॒ग्निर्वृ॒धाव॑ति ॥

पदपाठः

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ ।
तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥

सायणभाष्यम्

यस्य नमस्विनो नमस्कारवतो अदुर्मखस्य वा अदुष्टयागस्य वा शमीं कर्म अजुषदसेवत । तं घेत् तमेव यजमानं संग्रामे अग्निर्वृधावति विशेषेण गच्छति अतो नमोयुक्ता अदुर्मखाश्च भवामेति भावः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६