मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् २

संहिता

अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिरः॑ ।
वज्रे॑ण श॒तप॑र्वणा ॥

पदपाठः

अ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ ।
वज्रे॑ण । श॒तऽप॑र्वणा ॥

सायणभाष्यम्

अयमिन्द्रो मरुत्सखा मरुद्युक्तोवृत्रस्य व्यभिनत् व्यच्छिनच्छिरः वज्रेण शतपर्वणा शतसंधिना ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७