मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ४

संहिता

अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् ।
इन्द्रे॑ण॒ सोम॑पीतये ॥

पदपाठः

अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् ।
इन्द्रे॑ण । सोम॑ऽपीतये ॥

सायणभाष्यम्

अयंह खल्विन्द्रः येन वै येनखलु मरुत्वता मरुद्भिर्युक्तेनेन्द्रेणेदं स्वः स्वर्गाख्यं स्थानं इदं स्वः सर्वं कर्म वा यद्वेदं सर्वं जगत् जितम् । किमर्थं सोम- पीतये सोमपानाय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७