मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ११

संहिता

अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् ।
इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥

पदपाठः

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ।
इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥

सायणभाष्यम्

हे इन्द्र क्रक्षमाणं शत्रून्विलिखन्तं त्वा त्वां उभे रोदसी उभे अपि द्यावापृथिव्यौ अन्वकृपेतां अनुकल्पयेताम् । यद्यदा दस्युहा भवोभवसि तदा ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८