मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ३

संहिता

समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।
प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥

पदपाठः

सम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या ।
प्रऽवृ॑द्धः । द॒स्यु॒ऽहा । अ॒भ॒व॒त् ॥

सायणभाष्यम्

तान् जनन्योक्तान्वृत्रहा इन्द्रः समित् सहैवाखिदत् खेदनं नामाकर्षणम् । खे रथचक्रस्य नाभौ अरान् चक्रांगभुतान् शंकून् खेदयाइव रज्ज्वेव तया तान्यथा संखिदन्ति तद्वत् तथा कृत्वादस्युहा शत्रुघातीन्द्रः प्रवृद्धोभवत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९