मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ५

संहिता

अ॒भि ग॑न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।
इन्द्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥

पदपाठः

अ॒भि । ग॒न्ध॒र्वम् । अ॒तृ॒ण॒त् । अ॒बु॒ध्नेषु॑ । रजः॑ऽसु । आ ।
इन्द्रः॑ । ब्र॒ह्मऽभ्यः॑ । इत् । वृ॒धे ॥

सायणभाष्यम्

अयमिन्द्रो गंधर्वं गामुदकं धारयतीति गंधर्वो मेघस्तं अभ्यातृणत् सर्वतोहिंसितवान् । कुत्र अबुध्नेषु पदनिधानयोग्यस्थानरहितेषु रजःसु लोकेषु अन्तरिक्षप्रदेशेष्वित्यर्थः । किमर्थं ब्रह्मभ्यइत् ब्राह्मणेभ्यएव वृधे वर्धनाय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९