मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् १

संहिता

अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ ।
ऋषि॒र्विप्र॒ः काव्ये॑न ॥

पदपाठः

अ॒यम् । कृ॒त्नुः । अगृ॑भीतः । वि॒श्व॒ऽजित् । उ॒त्ऽभित् । इत् । सोमः॑ ।
ऋषिः॑ । विप्रः॑ । काव्ये॑न ॥

सायणभाष्यम्

अयं सोमः कृत्नुः कर्ता सर्वस्य अगृभीतोन्यैरगृहीतः विश्वजित् सर्वस्य जेता उद्भित् फलस्योद्भेदकः अथवा विश्वजिदुद्भिदौ सोमयागौ तयो- र्निष्पादकत्वात् तद्रूपौ ऋषिर्ज्ञानवान् विप्रः मेधावी विप्रबत्पूज्यः विशेषेण पूरकोवा एवं महानुभावः सोमः काव्येन स्तोत्रेण स्तुत्यो भवती- तिशेषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३