मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् २

संहिता

अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् ।
प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥

पदपाठः

अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् ।
प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥

सायणभाष्यम्

अयं सोमोयन्नग्रमस्ति तदभ्यूर्णोति आच्छादयति यन्नग्नमिव विफलं वर्तते तदाच्छादयति फलेन अथवा वस्त्रं जनयन्नाच्छादयति । तथा यत्तुर- मातुरं रुग्णं विश्वं तद्भिषक्तिः भिषज्यति यज्ञद्वारा स्वर्गसाधनेन औषधरूपेण च शरीरसिद्धिसाधनश्च अन्धः सन्नन्धोपि प्रख्यत् पश्यति । श्रोणः श्रोणोपि पंगुरपि निर्भूत् निर्भवति निर्गच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३