मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् ५

संहिता

अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् ।
व॒वृ॒ज्युस्तृष्य॑त॒ः काम॑म् ॥

पदपाठः

अ॒र्थिनः॑ । यन्ति॑ । च॒ । इत् । अर्थ॑म् । गच्छा॑न् । इत् । द॒दुषः॑ । रा॒तिम् ।
व॒वृ॒ज्युः । तृष्य॑तः । काम॑म् ॥

सायणभाष्यम्

अर्थिनो धनानि कामयमाना यन्ति चेत् यन्ति च अर्थं प्रति गत्वा च ददुषो दात् रातिं दानं गच्छानित् गच्छन्तिच । गतेषु मध्ये यं हे सोम त्वम- नुगृह्णासि तस्य तृष्यतोभिक्षमाणस्य कामं ववृज्युः पुनः कामानावर्जयन्ति तावत्पर्यन्तं पूरयन्तीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३