मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् ६

संहिता

अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ ।
अ॒स्मान्त्सु जि॒ग्युष॑स्कृधि ॥

पदपाठः

अव॑ । नः॒ । वा॒ज॒ऽयुम् । रथ॑म् । सु॒ऽकर॑म् । ते॒ । किम् । इत् । परि॑ ।
अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒धि॒ ॥

सायणभाष्यम्

हे इन्द्र नोवाजयुं अन्नेच्छुं रथं अव रक्ष । संग्रामे ते तव किमित् किमपि सर्वकर्तव्यजातं परि परितः सुकरं सुखेन कर्तव्यम् । तव कर्तुमशक्यं नकिं- चिदस्ति । यस्मादेवं तस्मात् अस्मान् सुजिग्युषः सुष्ठु जेतॄन् कृधि कुरु संग्रामे ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६