मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् १

संहिता

आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
मध्व॒ः प्रति॒ प्रभ॑र्मणि ॥

पदपाठः

आ । प्र । द्र॒व॒ । प॒रा॒ऽवतः॑ । अ॒र्वा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।
मध्वः॑ । प्रति॑ । प्रऽभ॑र्मणि ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

आप्रद्रवेति नवर्चं द्वितीयं सूक्तम् । तथाचानुक्रम्यते-आप्रद्रवेति । ऋषिश्चान्यस्मादिति परिभाषया काण्वःकुसीदऋषिः प्राग्वत्सप्रीयपरिभाषया गायत्रीछन्दः अनादेशपरिभाषयेन्द्रोदेवता । महाव्रते निष्केवल्ये सूक्तविनियोगउक्तः । द्वितीये रात्रिपर्याये मैत्रावरुणशस्त्रे आप्रद्रवेतितृचोनुरूपः । सूत्रितंच-आप्रद्रवपरावतो नह्य न्यंबळाकरमित्यष्टाविति ।

हे वृत्रहन् अपामावरकस्य वृत्रासुरस्य हन्तर्हे इन्द्र प्रभर्मणि प्रकृष्टानि भर्माणि भर्माणि भरणानि पशुग्रहादिसंपादनानि यस्मिन् सप्रभर्मा यज्ञः । यद्वा प्रकृष्टाः कर्मणिकुशला भर्माणः देवानां हविः प्रदानेन पोषका ऋत्विजोयस्मिन्निति सतथोक्तः एतादृशे यज्ञे मध्वः मदकरान् सोमान् प्रति परावतः विप्रकृष्ठात् दूरस्थाद्देशादपि अर्वावतश्च समीपस्थाद्देशादपि आभिमुख्येन प्रद्रव त्वं त्वरया आगच्छ । मध्वइति वाछन्दसीति पूर्वसवर्णदीर्घाभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः