मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् ५

संहिता

तुभ्या॒यमद्रि॑भिः सु॒तो गोभि॑ः श्री॒तो मदा॑य॒ कम् ।
प्र सोम॑ इन्द्र हूयते ॥

पदपाठः

तुभ्य॑ । अ॒यम् । अद्रि॑ऽभिः । सु॒तः । गोभिः॑ । श्री॒तः । मदा॑य । कम् ।
प्र । सोमः॑ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥

सायणभाष्यम्

हे इन्द्र अद्रिभिरभिषवसाधनैर्ग्रावभिरयं सोमः तुभ्य तुभ्यं त्वदर्थं सुतोभिषुतः ततोदशापवित्रेण पूत्वा गोभिः गोविकारैः क्षीरादिभिः श्रीतः सः अस्माभिः परावतएव संस्कृतः सोमः तव मदाय मदार्थं कं सुखेन प्रहूयते अग्नौ स्वाहाक्रियते तस्मादागत्य सोमं पिब ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः