मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८९, ऋक् २

संहिता

अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥

पदपाठः

अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥

सायणभाष्यम्

अशस्तिहा स्तोत्रशंसनरहितानां शत्रूणां हन्तेन्द्रः अभिशस्तीः शसुहिंसायां अभितोहिंसा येषां ते तादृशान् यद्वा अभिशस्तीः शत्रुकृता हिंसाः अपाधमत् अपागमयत् अथ शत्रुहन नानन्तरं इन्द्रोद्युम्नी सर्वत्रद्योतमानयशोयुक्तः । यद्वा तेषां धनापहरणेन धनादिमान् आभवत् सर्वतः प्रसिद्धोभवत् । अथोत्तरार्धः प्रत्यक्षकृतः हे बृहद्भानो बृंहणशीलतेजस्क महादीप्तेवा मरुद्गण मरुतां सप्तगणायस्यसन्ति सतथोक्तः तादृश हे इन्द्र देवाः द्योतमानाः सर्वे देवाः सख्याय आत्मनः सखिभावाय ते त्वां येमिरे नियच्छन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२