मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८९, ऋक् ३

संहिता

प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥

पदपाठः

प्र । वः॒ । इन्द्रा॑य । बृ॒ह॒ते । मरु॑तः । ब्रह्म॑ । अ॒र्च॒त॒ ।
वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒ऽहा । श॒तऽक्र॑तुः । वज्रे॑ण । श॒तऽप॑र्वणा ॥

सायणभाष्यम्

हे मरुतो मितराविणः स्तोतारः बृहते महते वः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन युष्मदीयायेन्द्राय ब्रह्मसामलक्षणं स्तोत्रं प्रार्चत प्रोच्चारयत । ततो वृत्रहा वृत्रस्य पापस्यवा हन्ता शतक्रतुः शतविधकर्मा बहुविधप्रज्ञोवा इन्द्रः शतपर्वणा शतसंख्याकधारेण वज्रेण एतन्नामकेनायुधेन वूत्रमपामाव- रकं वृत्राख्यमसुरं हनति युष्माभिरभिष्टुतः सन् हन्तु । हन्तेर्लेट्यडागमः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२