मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८९, ऋक् ४

संहिता

अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मन॒ः श्रव॑श्चित्ते असद्बृ॒हत् ।
अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्व॑ः ॥

पदपाठः

अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्ऽम॒नः॒ । श्रवः॑ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् ।
अर्ष॑न्तु । आपः॑ । जव॑सा । वि । मा॒तरः॑ । हनः॑ । वृ॒त्रम् । जय॑ । स्वः॑ ॥

सायणभाष्यम्

हे धृषन्मनः शत्रूणां धर्षणशीलमनस्केन्द्र तेचित् तवैव बृहन्महदतिप्रभूतं श्रवोन्नमसदस्ति । तदन्नं धृषता धृष्टेन मनसा युक्तः सन् अस्मभ्यम- भिप्रभर अभ्याभिमुख्येन प्रकर्षेण संपादय देहीत्यर्थः । हे इन्द्र आपो मातरः अस्माकमुत्पादनहेतुत्वान्मातृभूताः । कथमपां मातृत्वंअद्भ्यः पृथिवी । पृथिव्याओषधयइत्यादिश्रुतेः । तादृश्यआपः जवसा वेगेन व्यर्षंतु विविधं भूमिं प्रतिगच्छन्तु-कथमापोगच्छन्तीतिचेत् तदाह-वृत्रं अपामावरितारं शत्रुं मेघं हनोजहि ताडय । ततो मेघभेदनेनोदकानि विगच्छन्तु पुनरपि स्वः सर्वं भूतजातं जय ॥ ४ ॥ प्रथमे स्वरसाम्नि निष्केवल्ये यज्जायथाअपूर्व्येति स्तोत्रियः । तथाच सूत्र्यते-तेषां स्तोत्रिया यज्जायथाअपूर्व्येति स्तोत्रियः । तथाच सूत्र्यते- तेषां स्तोत्रिया यज्जायथाअपूर्व्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२