मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८९, ऋक् ५

संहिता

यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।
तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥

पदपाठः

यत् । जाय॑थः । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य ।
तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥

सायणभाष्यम्

हे अपूर्व्य स्वतोव्यतिरिक्तेन पूर्व्येण वर्जित हे मघवन् मंहनीयधनवन्निन्द्र वृत्रहत्याय वृत्रासुरहननाय यद्यदा त्वं जायथाः उत्पन्नः प्रादुर्भूतोसि तत्त- दानीमेव पृथिवीं प्रथमानामप्रथयः प्रसिद्धां दृढामकरोः । उतापिच तत्तदानीमेव द्यां द्युलोकमन्तरिक्षेण अस्तभ्राः निरुद्धामकार्षीः । एतादृशं वीर्यं त्वदन्यस्य नसंभवतीत्यर्थं द्योतयितुमपूर्व्येतिपदम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२