मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९०, ऋक् ३

संहिता

ब्रह्मा॑ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता ।
इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥

पदपाठः

ब्रह्म॑ । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । क्रि॒यन्ते॑ । अन॑तिद्भुता ।
इ॒मा । जु॒ष॒स्व॒ । ह॒रि॒ऽअ॒श्व॒ । योज॑ना । इन्द्र॑ । या । ते॒ । अम॑न्महि ॥

सायणभाष्यम्

हे गिर्बणो गीर्भिर्वननीयेन्द्र अनतिद्भुता सर्वानतिक्रम्य नभवन्ति इन्द्रगुणव्यापकानि यथार्थभूतनीत्यर्थः । तादृशानि यानि ब्रह्म ब्रह्माणि स्तोत्राणि ते त्वदर्थमस्माभिः क्रियन्ते हे हर्यश्व हरिताश्वन् हे इन्द्र योजना योजनानि तव सम्यक् योजनशीलानि ता तानीमा इमानि स्तोत्राणि जुषस्व सेवस्व । किंच हे इन्द्र ते त्वदथं या यानि स्तोत्राणि अमन्महि वयमुच्चरामः तानि सर्वाणि सेवस्व ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३