मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९१, ऋक् ४

संहिता

कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।
कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥

पदपाठः

कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् ।
कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥

सायणभाष्यम्

सोमं पीतवानिन्द्रोस्मानेवं करोत्वित्याह-सइन्द्रः कुविद्बहुवारमस्मान् शकत् शक्तान् समर्थान् करोतु । किंच कुवित् बहुचास्मभ्यं करत् करोतु । किंच सएवेन्द्रोनोस्मान् कुवित् बहुकृत्वा वस्यसः वसीयसः अतिशयेन वसुमतः करोतु । करोतेः शक्नोतेश्च लेट्यडागमः । इदानीमात्रेयी अहमे- वंकरिष्यामीति वदति पूर्वं कुविद्बहु पतिद्विषः त्वग्दोषात् पतिभिर्भर्तृभिः बहुवारं द्विष्टाः अतएव यतीः पतिभ्यः सकाशादितोगच्छन्त्योवयं कैश्चित् अप्यनूह्यमानाः सत्यः संप्रतीन्द्रेण सह संगमामहै संगच्छामहै सर्वत्र पूजार्थे बहुवचनम् । संगमशब्देनेन्द्रोपालामचकमतेति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४