मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९१, ऋक् ५

संहिता

इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय ।
शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥

पदपाठः

इ॒मानि॑ । त्रीणि॑ । वि॒ष्टपा॑ । तानि॑ । इ॒न्द्र॒ । वि । रो॒ह॒य॒ ।
शिरः॑ । त॒तस्य॑ । उ॒र्वरा॑म् । आत् । इ॒दम् । मे॒ । उप॑ । उ॒दरे॑ ॥

सायणभाष्यम्

इन्द्रेण किंकामयसे तद्दास्यामीत्युक्ता सा वरमनया प्रार्थयते । हे इन्द्र इमानि त्रीणि विष्टपा विष्टपानि स्थानानि सन्ति तानि त्रीणि स्थानानि विरोहय उत्पादय । कानि तानि ततस्य मम पितुः रोमवर्जितं शिरः खलतिमित्यर्थः तच्चापगमय रोमशंकुर्वित्यर्थः । उर्वरां तस्यऊपरं क्षेत्रं सर्वसस्याढ्यं कुरु । आदनन्तरं मे मम उपोदरे उप उदरस्य समीपे यदिदं स्थानं गुह्यमित्यर्थः तच्च त्वग्दोषेसत्यसंजातरोमकं तदपि त्वग्दोष- परिहारेण रोमयुक्तं कुरु । एतानि त्रिणि स्थानानि । एषोर्थः शाट्यायनके प्रपंचेनोक्तः-तामब्रवीदपाले किं कामयसीति साब्रवीदिमानित्रीणि विष्टपेति खलतिर्हास्यैपिता संतहाखलतिं चकारोर्वराहास्य नजज्ञे सोजज्ञ उपस्थेहास्यै रोमाणि नासुस्तान्युह जज्ञिरइत्यस्योत्तराभूयसे निर्वचनायासौचयानइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४