अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।
अथो॑ त॒तस्य॒ यच्छिर॒ः सर्वा॒ ता रो॑म॒शा कृ॑धि ॥
अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा॑ । आत् । इ॒माम् । त॒न्व॑म् । मम॑ ।
अथो॒ इति॑ । त॒तस्य॑ । यत् । शिरः॑ । सर्वा॑ । ता । रो॒म॒शा । कृ॒धि॒ ॥
उक्तमेवार्थमनयाविवृणोति नोस्माकं पितुर्यासा उर्वरा यदिदमूषरं क्षेत्रमस्ति आदनन्तरं मम इमां तन्वं इदं त्वग्दोषदुष्टं गुह्यस्थानं अथो अथापिच ततस्य तातस्य यच्छिरोरोमवर्जितमस्ति एतानि सर्वा सर्वाणि नानीमानि त्रीणि स्थानानि रोमशा रोमशानि कृधि कुरु ॥ ६ ॥