मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९१, ऋक् ७

संहिता

खे रथ॑स्य॒ खेऽन॑स॒ः खे यु॒गस्य॑ शतक्रतो ।
अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒ः सूर्य॑त्वचम् ॥

पदपाठः

खे । रथ॑स्य । खे । अन॑सः । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अ॒पा॒लाम् । इ॒न्द्र॒ । त्रिः । पू॒त्वी । अकृ॑णोः । सूर्य॑ऽत्वचम् ॥

सायणभाष्यम्

अनया अपालां सूयसदृशप्रभामकरोदित्याह-हे शतक्रतो हेशतसंख्याकयज्ञ बहुविधप्रज्ञवा हे इन्द्र रथस्य स्वकीयस्य खे पृथुतरेछिद्रे तथा अनसः शकटस्य खे तदपेक्षया अल्पे छिद्रे युगस्य खेच अल्पतरे सूक्ष्मे छिद्रे रथशकटयुगानां छिद्रेषु त्वग्दोषपरिहाराय त्रिः त्रिवारं निष्कर्षेण पूत्वी पूत्वा शोधयित्वा ततः अपालामेतन्नामिकामत्रिसुतां ब्रह्मवादिनीं सूर्यत्वचं सूर्यसमानत्वचमकृणोः अकरोः कल्याणतमरूपभाजमकरोरित्यर्थः । शाट्यायनब्राह्मणे स्पष्टमभिहितं-तांखेरथस्याध्यबृहत्सागोधाभवत्तां खेनसोत्यबृहत्सासंश्लिष्टकाभवत्तदेषाभ्यनूच्यते खेरथस्यखेनसइति तस्यैह यत्कल्याणतमं रूपाणां तद्रूपमासेति । त्वग्दोषापनयनायाक्षादिद्वारेष्वतिकर्षणमिति । यस्त्वग्दोषदूषितःसन् एतत्सूक्तं पठति तस्य त्वग्दोष- मपगमय्य सूर्यसदृशकान्तिमिन्द्रः करोतीति सूक्तंप्रशस्यते ॥ ७ ॥

पांतमावइति त्रयस्त्रिंशदृचं द्वादशं सूक्तं आंगिरसस्य श्रुतकक्षस्य सुकक्षस्यवार्षं ऎन्द्रं आद्यानुष्टुप् शिष्टागायत्र्यः तथानुक्रम्यते-पांतं त्रयस्त्रिं- शच्छ्रुतकक्षः सुकक्षोवाद्यानुष्टुबिति । महाव्रते गायत्रतृचाशीतौ प्रथमावर्जमिदंसूक्तमुत्तरंच । पंचमारण्यके सूत्रितंच-पुरुहूतंपुरुष्टुतमिति शेषइति । प्रथमेरात्रिपर्याये होतुः शस्त्रे आद्यौ तृचौ स्तोत्रियानुरूपौ । सूत्रितंच-पांतमावो अंधसोपादुशिप्र्यंधसइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४