मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ४

संहिता

अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।
इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥

पदपाठः

अपा॑त् । ऊं॒ इति॑ । शि॒प्री । अन्ध॑सः । सु॒ऽदक्ष॑स्य । प्र॒ऽहो॒षिणः॑ ।
इन्दोः॑ । इन्द्रः॑ । यव॑ऽआशिरः ॥

सायणभाष्यम्

शिप्री शिप्रेहनूनासिकेवा शोभनहनुः यद्वा शिप्राः शीर्षण्याः सुशिरस्त्राणः सइन्द्रएव प्रहोषिणः प्रकर्षेण देवान् हविर्भिर्जुह्वतः सुदक्षस्य एतन्ना- मकस्य ऋषेः संबन्धि यवाशिरः श्रीङ्पाके आङ्पूर्वस्य अपस्पृधेथामानृचुरित्यादिना धातोः शिरादेशः यवैरामिश्रितं यवैः सह पक्वं इन्दोः सर्वतः पात्रेषु क्षरन्त अन्धसः सोमलक्षणमन्नमपादपिबत् । यद्वा अस्यसोमस्य भागमिन्द्रार्थं परिकल्पितं सोमांशमपिबत् । उइत्यवधारणे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५