मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ५

संहिता

तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ ।
तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥

पदपाठः

तम् । ऊं॒ इति॑ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।
तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥

सायणभाष्यम्

हे ऋत्विजः तमु नतेवेन्द्रं अभ्याभिमुख्येन प्रार्चत प्रकर्षेण स्तुत । किमर्थं सोमपीतये अत्रागत्य सोमपानाय । किमर्थं सोमपानायेति विशेष्यते तदाह-तदित् तत्सोमपानमेव अस्येन्द्रस्य वर्धनं वर्धकं भवति खलु तस्मात्सोमपानजहर्षाय प्रार्चत ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५