मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १०

संहिता

अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया ।
इ॒षा स॒हस्र॑वाजया ॥

पदपाठः

अतः॑ । चि॒त् । इ॒न्द्र॒ । नः॒ । उप॑ । आ । या॒हि॒ । श॒तऽवा॑जया ।
इ॒षा । स॒हस्र॑ऽवाजया ॥

सायणभाष्यम्

हे इन्द्र अतश्चिदस्मात् द्युलोकादेव । यद्वा अस्माच्छत्रुस्थानात् शतवाजया शतसंख्याकबलयुक्तेन तथा सहस्रवाजया वाजोन्नं सहस्रसंख्यान्नवता बहुबलान्नेन इषा अन्नरसेन युक्तः सन् नोस्मानुपायाहि अधिकं आभिमुख्येन आगच्छ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६