अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।
जये॑म पृ॒त्सु व॑ज्रिवः ॥
अया॑म । धीऽव॑तः । धियः॑ । अर्व॑त्ऽभिः । श॒क्र॒ । गो॒ऽद॒रे॒ ।
जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥
हे शक्र समर्थेन्द्र धीवतः छन्दसीरइति मतुपोवत्वं कर्मकरणात् कर्मवन्तोवयं धियः युद्धजयार्थं कर्माणि अयाम गच्छाम । ततः गोदरे दृविदारणे अचइरितीप्रत्ययः गवां पर्वतानां दरयितः हे वज्रिवः वज्रवन् । यद्वा वजनं गमनं वज्रः तद्वान् कुलिशः तद्वन्निन्द्र पृत्सु संग्रामेषु अर्वद्भिः सर्वतो- गन्तृभिः त्वया दत्तैरश्वैः जयेम वयं तवादातॄन् जेष्यामः ॥ ११ ॥