मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २१

संहिता

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
तमिद्व॑र्धन्तु नो॒ गिरः॑ ॥

पदपाठः

त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

सायणभाष्यम्

हे देवासो देवा इन्द्रायः त्रिकद्रुकेषु आभिप्लविकेष्वहस्सु ज्योतिर्गौरायुरिति त्रिकद्रकाः तेषु चेतनं चितीसंज्ञाने चेतन्ति जानन्ति अनेन स्वर्गादिक- मिति चेतनः ज्ञानसाधनं यज्ञं अत्नत अतन्वत स्वैः स्वैः कर्मभिः पालनैश्च विस्तारितवन्तः । तनुविस्तारे लङि बहुलंछन्दसीति विकरणस्यलुक् तनिपत्योश्छन्दसीति उपधालोपः । तमित् तमेव अस्मदीयं यज्ञं नोस्माकं गिरः स्तुतिलक्षणावाचो वर्धंतु वर्धयन्तु ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९