मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २४

संहिता

अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।
अरं॒ धाम॑भ्य॒ इन्द॑वः ॥

पदपाठः

अर॑म् । ते॒ । इ॒न्द्र॒ । कु॒क्षये॑ । सोमः॑ । भ॒व॒तु॒ । वृ॒त्र॒ऽह॒न् ।
अर॑म् । धाम॑ऽभ्यः । इन्द॑वः ॥

सायणभाष्यम्

हे वृत्रहन् वृत्रस्यापामावरकस्यासुरस्य पापस्यवा हन्तर्हे इन्द्र सोमोस्माभिर्दीयमानस्ते तव कुक्षये अरमलं पर्याप्तोभवतु । किंच इन्दवः सर्वतः क्षरणशीलाः सोमाः तवधामभ्यः नानाविधेभ्यः शरीरेभ्यः तव तेजोभ्योवा अरमलं पर्याप्ताभवन्तु । अनेन तेजसा हविर्भाक्त्वमस्तीति सूचितम् । अस्मदीयाः सोमाएव तवकुक्षये देहेभ्योपि पर्याप्ताभवन्तु नान्यदीया इतिभावः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९