मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २५

संहिता

अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।
अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥

पदपाठः

अर॑म् । अश्वा॑य । गा॒य॒ति॒ । श्रु॒तऽक॑क्षः । अर॑म् । गवे॑ ।
अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥

सायणभाष्यम्

श्रुतकक्षोनामऋषिः गवाश्वादिलाभार्थमिन्द्रं स्तौति-अयं श्रुतकक्षः एतन्नामकऋषिः अश्वाय इन्द्रेण दीयमानायाश्वाय एतदर्थं अरमलं गायति इन्द्रविषयं स्तोत्रं करोति । तथा गवे अरमलं गायति इन्द्रस्य इन्द्रकर्तृकाय धाम्ने गृहाय तदर्थंच अरं पर्याप्तं स्तौति । यदश्वादिकमिन्द्रः प्रयच्छति तस्मै गायतीति । यद्वा इन्द्रस्येति कर्मणि षष्ठी गवादिलाभार्थमिन्द्रं स्तौति ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९