मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २६

संहिता

अरं॒ हि ष्म॑ सु॒तेषु॑ ण॒ः सोमे॑ष्विन्द्र॒ भूष॑सि ।
अरं॑ ते शक्र दा॒वने॑ ॥

पदपाठः

अर॑म् । हि । स्म॒ । सु॒तेषु॑ । नः॒ । सोमे॑षु । इ॒न्द्र॒ । भूष॑सि ।
अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ॥

सायणभाष्यम्

हे इन्द्र सुतेष्वभिषुतेषु नोस्मदीयेषु सोमेषु । हिष्मेत्यवधारणे त्वमेव तेषां पाने अलं पर्याप्तोभूषसि भवसि । यद्वा सोमेष्वभिषुतेषु सत्सु नोस्माकं पर्याप्तं धनं भूषसि । भुप्राप्तौ त्वं प्रापय । तथा हे शक्र समर्थेन्द्र दावने धनादिकस्य दात्रे ते तुभ्यं अस्माभिर्दीयमानाः सोमाः अरमलं पर्याप्ता भवन्तु ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९