मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् ४

संहिता

अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुतः॑ ।
उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥

पदपाठः

अस्ति॑ । सोमः॑ । अ॒यम् । सु॒तः । पिब॑न्ति । अ॒स्य॒ । म॒रुतः॑ ।
उ॒त । स्व॒ऽराजः॑ । अ॒श्विना॑ ॥

सायणभाष्यम्

अयं पुरोवर्ती सोमः सुतोमरुदर्थं अस्माभिरभिषुतोस्ति विद्यते । तस्मादस्य अन्वादेशे एनं सुतं सोमं स्वराजः स्वयं दीप्यमानाः स्वतेजसा नान्य- दीयेनेत्यर्थः तादृशाः मरुतः पिबन्ति । उतापिच अश्विना अश्विनौ च सोमं पिबतः ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८