मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् ८

संहिता

कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।
त्मना॑ च द॒स्मव॑र्चसाम् ॥

पदपाठः

कत् । वः॒ । अ॒द्य । म॒हाना॑म् । दे॒वाना॑म् । अवः॑ । वृ॒णे॒ ।
त्मना॑ । च॒ । द॒स्मऽव॑र्चसाम् ॥

सायणभाष्यम्

हे मरुतः महानां मंहनीयानां महतां वात्मनाच आत्मनैव अलंकरणैर्विनापि दस्मवर्चसां दर्शनीयतेजस्कानां अतएव देवानां द्योतमानानां वोयु- ष्माकमवः पालनं कत् कदाहं वृणे संभजे । वृङ्संभक्तौ कैयादिकः ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९