मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् १

संहिता

अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑ः सु॒वाचः॑ ।
अ॒स्मा आपो॑ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥

पदपाठः

अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ ।
अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥

सायणभाष्यम्

इन्द्रसामर्थ्यात् भीताउषसः उषःकालाः अस्मैपूर्वोक्तगुणोपेतायेन्द्राय यामं स्वस्वगमनं आ अतिरन्त तिरतिर्वर्धनकर्मा समन्तादवर्धयन्त । यथा पूर्वमुद्यन्ति तथेदानीमपि अस्मै उद्गताअभवन् । तथा ऊर्म्याः रात्रिनामैतत् ऋगतिप्रापणयोः अर्तेरूच्चेति मिप्रत्ययः भवेछन्दसीतियत् सर्वैरभिगन्तव्याः रात्रौहि सर्वे स्वनिवासं गच्छन्ति स्वनिलयप्राप्तिहेतुभूताः रात्रयः नक्तं अपररात्रिकाले सुवाचः शोभनवाचोभवन्ति तस्मि- न्काले हि सर्वे वेदाध्ययनानि शास्त्रश्रवणचिन्तनादीनि कुर्वन्ति तस्मात्कल्याणवाचोभवन् इन्द्रेनुशासति वेदाद्यनुमाने निरताअभवन् । तथा आपः आपॢव्याप्तौ सर्वतोव्याप्तामातरः जगतांनिर्मात्र्यः सप्त सप्तसंख्याकाः सिन्धवः स्यन्दमाना गंगाद्यानद्यः यद्वा सप्रणशीलाः सिन्धवः सरितः तासामावरकस्य अहेः हननेनोत्पादकत्वादस्माइन्द्राय तस्थुः नृभ्यस्तराय मनुष्याणां सुखेन तरणार्थं सुपाराः शोभनपाराः सुखेन तर्तुं योग्याः अभवन्नित्यर्थः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२