मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् २

संहिता

अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् ।
न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥

पदपाठः

अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्त्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् ।
न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥

सायणभाष्यम्

विथुरेण । वर्णव्यत्ययः । चिदप्यर्थे विधुरेण असहायेनापि अस्त्रा असुक्षेपणे ताच्छीलिकस्तृन् शत्रुक्षेपणशीलेनेन्द्रेण । यद्वा अस्त्रा अस्त्रेण वज्रेण त्रिःसप्त एकविंशतिसंख्यानि संहिता संहितानि एकत्र संघीभूतानि गिरीणां सप्तानां पर्वतानां सानु सानूनि अतिविद्धा अतिविद्धानि अतीत्य ताडितानि तेन मुक्तोवज्रपातः तानि भित्वागमदित्यर्थः । अत्र तैत्तिरीयकं ब्राह्मणं-दर्भपुंजीलमुद्धृत्य सप्तगिरीन् भित्वा तमहन्नित्यादि । तस्येन्द्रस्य तत्तानि सानुभेदनानि कर्माणि देवैन्द्राद्मतिरिक्तोदेवो मर्त्यो मनुष्योवा नतुतुर्यात् नतरेत तथाकर्तुं नशक्नोतीत्यर्थः । तॄप्लवनतरणयोः लिङिछान्दसः शपःश्लुः बहुलंछन्दसीत्युत्वम् । यद्वा तुरत्वरणे जौहोत्यादिकः । प्रवृद्धः सोमपानेन बलेनवा प्रवृद्धः वृषभः कामानामुदकानांवा वर्षकः इन्द्रः यानि कर्माणि चकार कृतवान् तानि देवो मनुष्योवा नतुतुर्यात् नहन्यात् हन्तुं शक्तोनभवेत् । अस्मिन्पक्षे तुरी गतिहिंसात्वरणयो- रित्येतस्यरूपम् । यथायोग्यं दीर्घाभावोह्रस्वश्छान्दसः न तथाकर्तुं शक्नोतीत्यर्थः ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२