मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ५

संहिता

आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ ।
प्र पर्व॑ता॒ अन॑वन्त॒ प्र गाव॒ः प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥

पदपाठः

आ । यत् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । धत्से॑ । म॒द॒ऽच्युत॑म् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ।
प्र । पर्व॑ताः । अन॑वन्त । प्र । गावः॑ । प्र । ब्र॒ह्माणः॑ । अ॒भि॒ऽनक्ष॑न्तः । इन्द्र॑म् ॥

सायणभाष्यम्

हे इन्द्र बाह्वोर्वज्रमायुधं कीदृशं मदच्युतं शत्रूणां मदस्य च्यावयितारं यद्यदा आधत्से आदधासि । किमर्थं अहये अहिनामानमसुरं मेघंवा हन्तवै उइत्यवधारणे हन्तुमेव । किंच यदावा इन्द्रेण अहिनामके असुरे हते सति पर्वता जगदापूरकामेघाः प्रानवन्त नुशब्दे प्रकर्षेणाशब्दयन् यदावा । गावः तत् स्थान्युदकानि च प्रकर्षेण ध्वनिमकुर्वन् । उदकान्यध्वनयन्नित्यत्र याजुषोनिगमः-यददः संप्रयन्तीरहावनदताहते तस्मादानद्योनाम- स्थेति । तुरीयःपादः परोक्षः तदानीमभिनक्षन्तः अभितइन्द्रं स्तुतिभिर्हविर्भिर्गच्छन्तो ब्रह्माणो ब्राह्मणाइन्द्रं पर्यचरन् । यद्वा ब्रह्माणः वृहवृद्धौ प्रवृद्धाः पर्वतादयः इन्द्रमस्तुवन् इति ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२